योग्यम्

सुधाव्याख्या

योग्यमिति । युज्यते । ‘युजिर् योगे' (रु० उ० अ०) । ‘ऋहलोर्ण्यत्' (३.१.१२४) । यद्वा योगाय प्रभवति । ‘योगाद्याच्च’ (५.१.१०२) । ‘योग्यः प्रवीणयोगार्होपायिशक्तेषु वाच्यवत् । क्लीबमृद्ध्योषधौ, पुष्पे नास्त्र्यभ्यासार्कयोषितो: (इति मेदिनी) ॥