उत्पलशारिवा

सुधाव्याख्या

उत्पलमस्त्यस्याः । उत्पलाकारपुष्पत्वात् । अर्शआद्यच् (५.२.१२७) । यद्वा उद्यतं पलमनया । उत्पला चासौ शारिवा च ॥


प्रक्रिया

उत्पल + सु + अच् - अर्शआदिभ्योऽच् 5.2.127
उत्पल + अच् - सुपो धातुप्रातिपदिकयोः 2.4.71
उत्पल + अ - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
उत्पल् + अ - यस्येति च 6.4.148
उत्पल + टाप् - अजाद्यतष्टाप्‌ 4.1.4
उत्पल + आ - हलन्त्यम् 1.3.3, चुटू 1.3.7, तस्य लोपः 1.3.9
उत्पला - तस्य लोपः 1.3.9
उत्पला + सु + शारिवा + सु - तत्पुरुषः समानाधिकरणः कर्मधारयः 1.2.42
उत्पला + शारिवा - सुपो धातुप्रातिपदिकयोः 2.4.71
उत्पलशारिवा - स्त्रियाः पुंवद्भाषितपुंस्कादनूङ् समानाधिकरणे स्त्रियामपूरणीप्रियाऽऽदिषु 6.3.34
उत्पलशारिवा + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
उत्पलशारिवा + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
उत्पलशारिवा - हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल् 6.1.68