वृद्धिः

सुधाव्याख्या

वर्धतेऽनया । ‘वृधु वृद्धौ' (भ्वा० आ० से०) । क्तिच् (३.३.१७४) । ‘वृद्धिस्तु वर्धने योगेऽप्यष्टवर्गौषधान्तरे । कालान्तरे चाभ्युदये समृद्धावपि योषिति' (इति मेदिनी) ॥