शारिवा

सुधाव्याख्या

शरणम्। ‘शॄ हिंसायाम्' (क्र्या० प० से०) । ‘कॄगॄशॄपॄकुटि-' इतीण् । शारिरस्त्यस्याः । ‘अन्येभ्योऽपि' (वा० ५.२.१०९) इति वः ॥


प्रक्रिया

धातुः - शॄ हिंसायाम्


शॄ + इण् - कॄगॄशॄपॄकुटिभिदिछिदिभ्यश्च (२.१२२) । उणादिसूत्रम् ।
शॄ + इ - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
शार् + इ - अचो ञ्णिति 7.2.115
शारि + सु + व - अन्येभ्योऽपि दृश्यते इति वक्तव्यम् (5.2.109) । वार्तिकम् ।
शारि + व - सुपो धातुप्रातिपदिकयोः 2.4.71
शारिव + टाप् - अजाद्यतष्टाप्‌ 4.1.4
शारिव + आ - हलन्त्यम् 1.3.3, चुटू 1.3.7, तस्य लोपः 1.3.9
शारिवा - अकः सवर्णे दीर्घः 6.1.101
शारिवा + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
शारिवा + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
शारिवा - हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल् 6.1.68