गोपी

सुधाव्याख्या

गोपीति । गोपायति । ‘गुपू रक्षणे' (भ्वा० प० से०) । आयाभावे पचाद्यच् (३.१.१३४) । गौरादिङीष् (४.१.४१) ॥ केचित्तु अजादित्वात् (४.१.४) टापमाहुः । ‘गोपी श्यामा गोपवल्ली गोपा गोपालिका च सा' इति वाचस्पतिः ॥