अमरकोशः


श्लोकः

ग्रन्थिर्ना पर्वपरुषी गुन्द्रस्तेजनकः शरः । नडस्तु धमनः पोटगलोऽथो काशमस्त्रियाम् ॥ १६२ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 ग्रन्थि ग्रन्थिः पुंलिङ्गः ग्रन्थते । इन् उणादिः इकारान्तः
2 पर्वन् पर्व नपुंसकलिङ्गः पर्वति । कनिन् बाहुलकात् नकारान्तः
3 परुष् परुष् नपुंसकलिङ्गः पिपर्ति । उस् उणादिः षकारान्तः
4 गुन्द्र गुन्द्रः पुंलिङ्गः गोदते । रक् बाहुलकात् अकारान्तः
5 तेजनक तेजनकः पुंलिङ्गः तेजयति । ण्वुल् कृत् अकारान्तः
6 शर शरः पुंलिङ्गः शृणाति । अच् कृत् अकारान्तः
7 नड नडः पुंलिङ्गः नडति । अच् कृत् अकारान्तः
8 धमन धमनः पुंलिङ्गः धमति । युच् उणादिः अकारान्तः
9 पोटगल पोटगलः पुंलिङ्गः पोटेन संश्लेषेण । गलति । अच् कृत् अकारान्तः
10 काश काशः पुंलिङ्गः, नपुंसकलिङ्गः काशते । अच् कृत् अकारान्तः