काशः

सुधाव्याख्या

अथविति । काशते । ‘काशृ दीप्तौ' (भ्वा० आ० से०) । अच् (३.१.१३४) । ‘काशस्तृणे रोगभेदे (इति हैमः) । ‘काशी वाराणसीपुरी' (इति मेदिनी) । ‘काशीकाशश्च तृणवाचकः' इति शभेदः । गौरादिङीष् (४.१.४१) ॥