पर्व

सुधाव्याख्या

पर्वति । ‘पर्व पूरणे' (भ्वा० प० से०) । बाहुलकात्कनिन् । ‘पर्व क्लीबं महे ग्रन्थौ प्रस्तावे लक्षणान्तरे । दर्शप्रतिपदोः संधौ विषुवत्प्रभृतिष्वपि' (इति मेदिनी) ॥