परुष्

सुधाव्याख्या

पिपर्ति । ‘पॄ पालनपूरणयो:' (जु० प० से०) । ‘अर्तिपृवपि-' (उ० २.११७) इत्युस् ॥ बाहुलकादुप्रत्यये उदन्तोऽपि । ‘मज्जा सारो, ग्रन्थिः परुः, पराग: कुसुमरेणुः' इति पुंस्काण्डे रत्नकोषात् ॥