शरः

सुधाव्याख्या

शृणाति । ‘शॄ हिंसायाम्' (क्र्या० प० से०) । अच् (३.१.१३४) । ‘शरस्तेजनके बाणे दध्यग्रे ना शरं जले' (इति मेदिनी) ॥ ‘सुरस्तु मुञ्जो बाणाख्यो गुन्द्रस्तेजनकः शरः' इति वाचस्पतेर्दन्त्यादिश्च । सरति । ‘सृ गतौ' (भ्वा० प० से०) । अच् (३.१.१३४) ॥