धमनः

सुधाव्याख्या

धमति । ‘धम ध्वाने’ सौत्रः । धम्यते वा । ‘बहुलम् (उ० २.७८) इति युच् । यत्तु - ‘ध्मो धमश्च' इति नप्रत्ययो धमादेशश्च – इत्याह मुकुटः । तन्न । उज्ज्वलदत्तादिष्वेतत्सूत्रस्यादर्शनात् । क्वुन् प्रकरणे दर्शनात् । सौत्रधातुना गतार्थत्वाच्च । ‘धमनो नले । क्रूरे भस्त्राध्यापके च धमनी कंधरा शिरा । हरिद्रा च' इति हैमः ॥