अमरकोशः


श्लोकः

सुषवी चाथ कुलकं पटोलतिस्तक्तकः पटुः । कूष्माण्डकस्तु कर्कारुरीर्वारु: कर्कटी स्त्रियौ ॥ १५५ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 सुषवी सुषवी स्त्रीलिङ्गः सु सुवति । अच् कृत् ईकारान्तः
2 कुलक कुलकम् नपुंसकलिङ्गः कोलति । कृत् अकारान्तः
3 पटोल पटोलः पुंलिङ्गः पटति। ओलच् उणादिः अकारान्तः
4 तिक्तक तिक्तकः पुंलिङ्गः तिक्त एव । कन् तद्धितः अकारान्तः
5 पटु पटुः पुंलिङ्गः पाटयति । उणादिः उकारान्तः
6 कूष्माण्डक कूष्माण्डकः पुंलिङ्गः कु ईषद् उष्मा अण्डेषु बीजेषु यस्य । बहुव्रीहिः समासः अकारान्तः
7 कर्कारु कर्कारुः पुंलिङ्गः कर्कं शुक्लवर्णमृच्छति । उण् बाहुलकात् उकारान्तः
8 ईर्वारु ईर्वारुः पुंलिङ्गः, स्त्रीलिङ्गः ईर्वेति । क्विप् कृत् उकारान्तः
9 कर्कटी कर्कटी स्त्रीलिङ्गः करं कटति । इन् उणादिः ईकारान्तः