पटोलः

सुधाव्याख्या

पटति । ‘पट गतौ' (भ्वा० प० से०) । अन्तर्भावितण्यर्थो वा । ‘कपिगडिगण्डि-' (उ० १.६६) इत्योलच् । ‘पटोलं वस्त्रभेदे, नौषधौ ज्योत्स्न्यां तु योषिति' (इति मेदिनी) ॥