सुषवी

सुधाव्याख्या

सु सुवति । ‘षू प्रेरणे' (तु० प० से०) । अच् (३.१.१३४) । ‘उपसर्गात्सुनोति-' (८.३.६५) इति षः । गौरादिः (४.१.४१) । ‘सुषवी कृष्णजीरके । कारवेल्ले च जीरे च' इति हैमः ॥


प्रक्रिया