कुलकम्

सुधाव्याख्या

अथेति । कोलति । ‘कुल संस्त्याने' (भ्वा० प० से०) । ‘इगुपध-' (३.१.१३५) इति कः । स्वार्थे कन्, क्वुन् (उ० २.३२) वा । ‘कुलकं तु पटोले स्यात्संबद्धश्लोकसंहतौ । पुंसि वल्मीककाकेन्दुकुलश्रेष्ठेषु कथ्यते' (इति मेदिनी) ॥