पटुः

सुधाव्याख्या

पाटयति । ‘पट गतौ' (भ्वा० प० से०) । ‘फलिपाटि-' (उ० १.१८) इत्युः पटिरादेशश्च । ‘पटुर्दक्षे च नीरोगे चतुरेऽप्यभिधेयवत् । पटोले तु पुमान् क्लीबे छत्रालवणयोरपि' (इति मेदिनी) ॥