ईरवारुः

सुधाव्याख्या

ईर्वेति । ईरणं ईर गतौ' (अ० आ० से०) । सम्पदादिः (वा० ३.३.१०८) । ईरं वृणोति, वारयति वा । ‘वृञ् वरणे' (स्वा० उ० से०) । बाहुलकादुण् । ‘तुर्यस्वरादिर् ‘ईर्वारुः कर्कट्यां पठ्यते बुधैः ॥ ह्रस्वादिरपि । ‘उन्मत्तो (?) धुस्तुर 'इर्वारुः कर्कटि: स्यात्' इति पुंस्काण्डे रत्नकोषात् ॥ ‘एवरुः' इति पाठे आङ् बोध्यः ॥ (‘उर्वारुकमिव बन्धनात् इति श्रुतेः पृषोदरादित्वेनादेरुत्वे ‘उर्वारुः' इति च) ॥


प्रक्रिया

धातुः - ईरँ गतौ कम्पने च , वृञ् वरणे


ईरँ गतौ कम्पने च
ईर् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
ईर् + क्विप् - संपदादिभ्यः क्विप् (3.3.108) । वार्तिकम् ।
ईर् - हलन्त्यम् 1.3.3, उपदेशेऽजनुनासिक इत् 1.3.2, लशक्वतद्धिते 1.3.8, वेरपृक्तस्य 6.1.67, तस्य लोपः 1.3.9
वृञ् वरणे
वृ - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
ईर् + अम् + वृ + उण् - बाहुलकात् ।, उपपदमतिङ् 2.2.19
ईर् + वृ + उण् - सुपो धातुप्रातिपदिकयोः 2.4.71
ईर् + वृ + उ - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
ईर् + वार् + उ - अचो ञ्णिति 7.2.115
ईरवारु + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
ईरवारु + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
ईरवारु + रु - ससजुषो रुः 8.2.66
ईरवारु + र् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
ईरवारुः - खरवसानयोर्विसर्जनीयः 8.3.15