अमरकोशः


श्लोकः

धाराधरो जलधरस्तडित्वान्वारिदोऽम्बुभृत् । घनजीमूतमुदिरजलमुग्धूमयोनयः ॥ ७ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 धाराधर धाराधरः पुंलिङ्गः धाराणां जलस्य च धरः । तत्पुरुषः समासः अकारान्तः
2 जलधर जलधरः पुंलिङ्गः जलस्य धरः । तत्पुरुषः समासः अकारान्तः
3 तडित्त्वत् तडित्त्वान् पुंलिङ्गः तडितः सन्त्यस्मिन् । मतुप् तद्धितः तकारान्तः
4 वारिद वारिदः पुंलिङ्गः वारि ददाति । तत्पुरुषः समासः अकारान्तः
5 अम्बुभृत् अम्बुभृत् पुंलिङ्गः अम्बु बिभर्ति । तत्पुरुषः समासः तकारान्तः
6 घन घनः पुंलिङ्गः हन्यते वायुना । अप् कृत् अकारान्तः
7 जीमूत जीमूतः पुंलिङ्गः जीवनं जलं मूतं बद्धमनेन । तत्पुरुषः समासः अकारान्तः
8 मुदिर मुदिरः पुंलिङ्गः मोदन्तेऽनेन । किरच् उणादिः अकारान्तः
9 जलमुच् जलमुक् पुंलिङ्गः जलं मुञ्चति । तत्पुरुषः समासः चकारान्तः
10 धूमयोनि धूमयोनिः पुंलिङ्गः धूमो योनिरस्य । बहुव्रीहिः समासः इकारान्तः