मुदिरः

सुधाव्याख्या

मोदन्तेऽनेन । मुद-हर्षे’ (भ्वा० आ० से०) । इषिमदिमुदि-' (उ० १.५१) इति किरच् । ‘मुदिरः कामुके मेघे’ ।


प्रक्रिया

धातुः - मुदँ हर्षे


मुद् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
मुद् + किरच् - इषिमदिमुदिखिदिच्छिदिभिदिमन्दिचन्दि-तिमिमिहिमुहिमुचिरुचिरुधिबन्धिशुषिभ्यः किरच् (१.५१) । उणादिसूत्रम् ।
मुद् + इर - हलन्त्यम् 1.3.3, लशक्वतद्धिते 1.3.8, तस्य लोपः 1.3.9
मुदिर + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
मुदिर + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
मुदिर + रु - ससजुषो रुः 8.2.66
मुदिर + र् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
मुदिरः - खरवसानयोर्विसर्जनीयः 8.3.15