धूमयोनिः

सुधाव्याख्या

धूमो योनिरस्य । यद्यपि शब्दार्णवे ‘मेघास्तु त्रिविधास्तत्र वह्निजा धूमयोनयः । निःश्वासजास्तु जीमूतास्ते ज्ञेया जीवरूपिणः । यज्ञजास्तु घना घोराः पुष्करावर्तकादयः’ इति विशेषपरत्वमुक्तम् । तथाप्यन्यत्रापि वृत्तिर्न विरुद्धा ।