जीमूतः

सुधाव्याख्या

जीवनं जलं मूतं बद्धमनेन । ‘मूङ् बन्धने' (भ्वा० आ० से०) । कर्मणि क्तः (३.२.१०२, ३.४.७०) । पृषोदरादिः (६.३.१०९) ज्यानं जीः । 'ज्या वयोहानौ (क्र्या० प० अ०) । संपदादित्वात् (वा० ३.३.१०८) क्विप् । जिया वयोहान्या मूतो बद्ध इति वा । ('जीमूतो वासनेऽम्बुदे । घोषकेऽद्रौ भृतिकरे’) ।