अमरकोशः


श्लोकः

राधा विशाखा पुष्ये तु सिध्यतिष्यौ श्रविष्ठया । समा धनिष्ठा स्युः प्रोष्ठपदा भाद्रपदाः स्त्रियः ॥ २२ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 राधा राधा स्त्रीलिङ्गः राध्नोति कार्यमनया । कृत् आकारान्तः
2 विशाखा विशाखा स्त्रीलिङ्गः विशाखति । अच् कृत् आकारान्तः
3 पुष्य पुष्यः पुंलिङ्गः पुष्येत्विति । क्यप् कृत् अकारान्तः
4 सिध्य सिध्यः पुंलिङ्गः सिध्यन्त्यस्मिन् । क्यप् कृत् अकारान्तः
5 तिष्य तिष्यः पुंलिङ्गः तुष्यन्त्यस्मिन् । क्यप् निपातनम् अकारान्तः
6 श्रविष्ठा श्रविष्ठा स्त्रीलिङ्गः श्रवणं श्रवः । इष्ठन् तद्धितः आकारान्तः
7 धनिष्ठा धनिष्ठा स्त्रीलिङ्गः एवमतिशयेन धनवती इष्ठन् तद्धितः आकारान्तः
8 प्रोष्ठपदा प्रोष्ठपदा स्त्रीलिङ्गः प्रोष्ठो गौः, तस्येव पादा यासाम् । बहुव्रीहिः समासः आकारान्तः
9 भाद्रपदा भद्रपदा स्त्रीलिङ्गः भद्रं पदं यासां ताः । बहुव्रीहिः समासः आकारान्तः