श्रविष्ठा

सुधाव्याख्या

श्रविष्ठयेति । श्रवणं श्रवः । ‘ॠदोरप्' (३.३.५७) । प्रसिद्धः । श्रवोऽस्त्यस्याः । मतुप् (५.२.९४) । अतिशयेन श्रववती । इष्ठन् (५.३.५५) । ‘विन्मतोर्लुक्' (५.३.६५) इति मतुपो लुक् ।


प्रक्रिया

धातुः - श्रु श्रवणे


श्रु + अप् - ऋदोरप्‌ 3.3.57
श्रु + अ - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
श्रो + अ - सार्वधातुकार्धधातुकयोः 7.3.84
श्रव् + अ - एचोऽयवायावः 6.1.78
श्रव + सु + मतुप् - तदस्यास्त्यस्मिन्निति मतुप्‌ 5.2.94
श्रव + मतुप् - सुपो धातुप्रातिपदिकयोः 2.4.71
श्रव + मतुप् + इष्ठन् - अतिशायने तमबिष्ठनौ 5.3.55
श्रव + इष्ठन् - विन्मतोर्लुक् 5.3.65
श्रव + इष्ठ - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
श्रव् + इष्ठ - यस्येति च 6.4.148
श्रविष्ठ + टाप् - अजाद्यतष्टाप्‌ 4.1.4
श्रविष्ठ + आ - हलन्त्यम् 1.3.3, चुटू 1.3.7, तस्य लोपः 1.3.9
श्रविष्ठा - अकः सवर्णे दीर्घः 6.1.101
श्रविष्ठा + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
श्रविष्ठा + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
श्रविष्ठा - हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल् 6.1.68