राधा

सुधाव्याख्या

राध्नोति कार्यमनया । ‘राध संसिद्धौ ( स्वा० प० अ०) । 'गुरोश्च हलः’ (३.३.१०३) इत्यकारः । राधयति । अच् (३.१.१३४) इति वा । राधा विद्युद्विशाखयोः । विष्णुक्रान्तामलक्योश्च गोपीवेध्यविशेषयोः’ इति हैमः ।