प्रोष्ठपदा

सुधाव्याख्या

प्रोष्ठो गौः, तस्येव पादा यासाम् । सुप्रातसुश्व- (५.४.१२०) इत्यादिना बहुव्रीहावच् पद्भावश्च निपातितः । प्रोष्ठपदयोर्द्वित्वेऽपि ‘फल्गुनीप्रोष्ठपदानाम्-’ (१.२.६०) इति नक्षत्रात्पाक्षिकं बहुत्वम् ।


प्रक्रिया

प्रोष्ठ + सु + पाद + सु - अनेकमन्यपदार्थे 2.2.24
प्रोष्ठ + पाद - सुपो धातुप्रातिपदिकयोः 2.4.71
प्रोष्ठ + पाद + अच् - सुप्रातसुश्वसुदिवशारिकुक्षचतुरश्रैणीपदाजपदप्रोष्ठपदाः 5.4.120
प्रोष्ठ + पद् + अ - सुप्रातसुश्वसुदिवशारिकुक्षचतुरश्रैणीपदाजपदप्रोष्ठपदाः 5.4.120
प्रोष्ठपद + टाप् - अजाद्यतष्टाप्‌ 4.1.4
प्रोष्ठपद + आ - हलन्त्यम् 1.3.3, चुटू 1.3.7, तस्य लोपः 1.3.9
प्रोष्ठपदा - अकः सवर्णे दीर्घः 6.1.101
प्रोष्ठपदा + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
प्रोष्ठपदा + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
प्रोष्ठपदा - हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल् 6.1.68