भद्रपदा

सुधाव्याख्या

भद्रं पदं यासां ताः । अत्रारोपाद्बहुत्वम् । यत्तु-‘सुप्रात-' (५.४.१२०) इति प्रोष्ठपदा भद्रपदाश्च निपातिताः इति मुकुटः । तन्न । भद्रपदा- शब्दस्य तत्राग्रहणात् । एतेन-अर्थग्रहणाद्भद्रपदा इति स्वाम्युक्तिरपि परास्ता ।