अमरकोशः


श्लोकः

शुक्रो दैत्यगुरुः काव्य उशना भार्गवः कविः । अङ्गारकः कुजो भौमो लोहिताङ्गो महीसुत: ॥ २५ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 शुक्र शुक्रः पुंलिङ्गः माहेश्वरशुक्रद्वारा निर्गतत्वाच्छुक्रः । रन् उणादिः अकारान्तः
2 दैत्यगुरु दैत्यगुरुः पुंलिङ्गः दैत्यानां गुरुः । तत्पुरुषः समासः उकारान्तः
3 काव्य काव्यः पुंलिङ्गः कोतुमवश्यमाख्यातुमर्हत्वात् काव्यः । ण्यत् कृत् अकारान्तः
4 उशनस् उशनस् पुंलिङ्गः वष्टि । कनसि उणादिः सकारान्तः
5 भार्गव भार्गवः पुंलिङ्गः भृगोरपत्यम् । अण् तद्धितः अकारान्तः
6 कवि कविः पुंलिङ्गः कवते । उणादिः इकारान्तः
7 अङ्गारक अङ्गारकः पुंलिङ्गः अङ्गानि इयर्ति पीनत्वात् तत्पुरुषः समासः अकारान्तः
8 कुज कुजः पुंलिङ्गः कोः पृथिव्या जातः । तत्पुरुषः समासः अकारान्तः
9 भौम भौमः पुंलिङ्गः भूमेरपत्यम् । अण् तद्धितः अकारान्तः
10 लोहिताङ्ग लोहिताङ्गः पुंलिङ्गः लोहितान्यङ्गान्यस्य । बहुव्रीहिः समासः अकारान्तः
11 महीसुत महीसुतः पुंलिङ्गः मह्याः सुतः । तत्पुरुषः समासः अकारान्तः