अङ्गारकः

सुधाव्याख्या

अङ्गारक इति । अङ्गानि इयर्ति पीनत्वात् । 'ऋ गतौ' (जु० प० अ०) । ‘कर्मण्यण्' (३.२.१) । अङ्गति वा । अगि गतौ (भ्वा० प० से०) । 'अङ्गिमदि-' (उ०३१३४) इत्यारन् । संज्ञायां कन् (५.३.९७) । अङ्गार इव । कन् (५. ३.९६) रक्तवर्णत्वादिति वा । ‘अङ्गारकः कुजेऽपि स्यादु- ल्मुकांशे कुरुण्टके । भवेदङ्गारिका चेक्षुकाण्डे किंशुककोरके ।