शुक्रः

सुधाव्याख्या

शुक्र इति । माहेश्वरशुक्रद्वारा निर्गतत्वाच्छुक्रः । शोचति । ‘शुच शोके' (भ्वा० प० से०) । 'ऋजेन्द्र-' (उ०२.२८) इति रक् इति वा ।


प्रक्रिया

धातुः - शुचँ शोके


शुच् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
शुक् रन् - ऋज्रेन्द्राग्रवज्रविप्रकुव्रचुव्रक्षुरखुरभद्रोग्रभेरभेलशुक्रशुक्लगौरवम्रेरामालाः (२.२८) । उणादिसूत्रम् ।
शुक् र - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
शुक्र + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
शुक्र + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
शुक्र + रु - ससजुषो रुः 8.2.66
शुक्र + र् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
शुक्रः - खरवसानयोर्विसर्जनीयः 8.3.15