भार्गवः

सुधाव्याख्या

भृगोरपत्यम् । ऋष्यण् (४.१.११४) । बहुत्वे तु लुक् (२.४.६५) । भृगवः । (‘भार्गवः परशुरामे सुधन्वनि मतङ्गजे । दैत्याचार्ये भार्गवी तु कृष्णदूर्वोमयोः स्त्रियाम्') ॥