अमरकोशः
भौमः
सुधाव्याख्या
भूमेरपत्यम् । शिवादित्वात् (४.१.११२) अण् । ‘भौमो मङ्गलदैत्ययोः' इति हैम: । (३)
प्रक्रिया
भूमि + ङस् + अण्
-
शिवादिभ्योऽण् 4.1.112
भूमि + अण्
-
सुपो धातुप्रातिपदिकयोः 2.4.71
भूमि + अ
-
हलन्त्यम् 1.3.3
,
तस्य लोपः 1.3.9
भूम् + अ
-
यस्येति च 6.4.148
भौम् + अ
-
तद्धितेष्वचामादेः 7.2.117
भौम + सु
-
स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप् 4.1.2
भौम + स्
-
उपदेशेऽजनुनासिक इत् 1.3.2
,
तस्य लोपः 1.3.9
भौम + रु
-
ससजुषो रुः 8.2.66
भौम + र्
-
उपदेशेऽजनुनासिक इत् 1.3.2
,
तस्य लोपः 1.3.9
भौमः
-
खरवसानयोर्विसर्जनीयः 8.3.15
Find words details involved in this Prakriya