अमरकोशः


श्लोकः

शीतं गुणे तद्वदर्था: सुषीम: शिशिरो जडः । तुषार: शीतलः शीतो हिम: सप्तान्यलिङ्गकाः ॥ १९ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 शीत शीतम् नपुंसकलिङ्गः गुणे स्पर्शविशेषे शीतम् । क्त कृत् अकारान्तः
2 सुषीम सुषीमः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः सुष्ठु सीमा मर्यादा यस्य इति शब्दार्थकौस्तुभः बहुव्रीहिः समासः अकारान्तः
3 शिशिर शिशिरः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः किरच् उणादिः अकारान्तः
4 जड जडः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः जलति घनीभवति । अच् कृत् अकारान्तः
5 तुषार तुषारः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः आरन् उणादिः अकारान्तः
6 शीतल शीतलः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः शीतं गुणोऽस्यास्ति । लच् तद्धितः अकारान्तः
7 शीत शीतः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः शीतं गुणोऽस्यास्ति । अच् तद्धितः अकारान्तः
8 हिम हिमः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः मक् उणादिः अकारान्तः