शीतम्

सुधाव्याख्या

गुणे स्पर्शविशेषे शीतम् । 'शीतं हिमगुणे क्लीबं शीतलालसयोस्त्रिषु । वानीरे बहुवारे ना । श्यैङ् गतौ' (भ्वा० प० अ०) । भावे क्तः (३.३.११४) । ‘द्रवमूर्ति स्पर्शयो: श्यः' (६.१.४५) इति संप्रसारणम् । ‘श्योऽस्पर्शे (८.२४७) इति पर्युदासान्न निष्ठानत्वम् ।