शिशिरः

सुधाव्याख्या

‘शश प्लुतगतौ' (भ्वा० प० से०) । 'अजिरशिशिर-' (उ० १.५३) इति किरच्, उपधाया इत्वं च निपात्यते । ‘शश्वच्छशाङ्कशिशिराण्यपि शूकशिम्बिस्तालव्यशद्वययुताः कथिताः कियन्त:’ इति शभेदः । ('शिशिरो ना हिमे न स्त्री ऋतुभेदे जडे त्रिषु') ॥