सुषीमः

सुधाव्याख्या

सुषीमादयः सप्त तु तद्वाञ्शीतगुणवानर्थो येषां ते तद्वदर्था: । ते च अन्यलिङ्गका विशेष्यलिङ्गाः । सुष्टु सीमा मर्यादा यस्य । ‘सुषामादिषु च (८.३.९८) इति । षत्वम् । स्वामी तु–‘सुष्टु श्यायते' इति विगृह्य (सुशीमः तालव्यमध्यमाह । तत्र बाहुलकान्मक् संप्रसारणं च । मुकुटस्तु ‘तदयुक्तम् । ‘सुषीमश्च सुषेणश्च सुषन्धिः सर्षषोऽपि च’ इति दन्त्यमूर्धन्य उष्मविवेकाद्-इत्याह । ‘सुषीमः शीतले चारौ त्रिषु, ना पन्नगान्तरे')