अमरकोशः


श्लोकः

निम्नं गभीरं गम्भीरमुत्तानं तद्विपर्यये । अगाधमतलस्पर्शे कैवर्ते दाशधीवरौ ॥ १५ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 निम्न निम्नः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः निमनति कः कृत् अकारान्तः
2 गभीर गभीरम् पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः गाते जलजन्तवोऽत्र । ईरन् उणादिः अकारान्तः
3 गम्भीर गम्भीरम् पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः गाते जलजन्तवोऽत्र । ईरन् उणादिः अकारान्तः
4 उत्तान उत्तानम् पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः उद्गतस्तानो विस्तारोऽस्मात् ॥ अकारान्तः
5 अगाध अगाधम् पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः नास्ति गाधः स्थितिरत्र । बहुव्रीहिः समासः अकारान्तः
6 अतलस्पर्श अतलस्पर्शः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः तलस्याधोभागस्य स्पर्श: न सोऽत्र । अकारान्तः
7 कैवर्त कैवर्तः पुंलिङ्गः के जले वर्तन्ते । अच् कृत् अकारान्तः
8 दाश दाशः पुंलिङ्गः दशति मत्स्यान् । उणादिः अकारान्तः
9 धीवर धीवरः पुंलिङ्गः दधाति मत्स्यान् । ष्वरच् उणादिः अकारान्तः