कैवर्तः

सुधाव्याख्या

कैवर्त इति । के जले वर्तन्ते । ‘वृतु वर्तने’ (भ्वा० आ० से०) । पचाद्यच् (३.१.१३४) । केवर्तानां मत्स्यानामयं घातकः । तस्येदम्' (४.३.१२०) इत्यण् ॥


प्रक्रिया

धातुः - वृतुँ वर्तने


वृत् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
वृत् + अच् - नन्दिग्रहिपचादिभ्यो ल्युणिन्यचः 3.1.134
वृत् + अ - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
वर्त् + अ - पुगन्तलघूपधस्य च 7.3.86
क + ङि + वर्त + सु - उपपदमतिङ् 2.2.19
क + ङि + वर्त - सुपो धातुप्रातिपदिकयोः 2.4.71
के + वर्त - हलदन्तात्‌ सप्तम्याः संज्ञायाम् 6.3.9
केवर्त + आम् + अण् - तस्येदम् 4.3.120
केवर्त + अण् - सुपो धातुप्रातिपदिकयोः 2.4.71
केवर्त + अ - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
केवर्त् + अ - यस्येति च 6.4.148
कैवर्त् + अ - तद्धितेष्वचामादेः 7.2.117
कैवर्त + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
कैवर्त + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
कैवर्त + रु - ससजुषो रुः 8.2.66
कैवर्त + र् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
कैवर्तः - खरवसानयोर्विसर्जनीयः 8.3.15