दाशः

सुधाव्याख्या

दशति मत्स्यान् । ‘दंश दशने' (भ्वा० प० अ०) ‘दंशेश्च (उ० ५.११) इति टटनौ न आ च । यद्वा दाश्यते मूल्यमस्मै । 'दाशृ दाने’ (भ्वा० उ० से०) । घञ् (३.३.१८) । ‘शालो झषे, धीवर एव दाशः इति शभेदात्तालव्यान्तः । ‘कैवर्तभृत्ययोर्दासो दासो बाणा च चेटिका' इति रुद्राद्दन्त्यान्तः । ‘दासो भृत्ये च शूद्रे च ज्ञानेऽर्थिनि च धीवरे’