गभीरम्

सुधाव्याख्या

गाते जलजन्तवोऽत्र । गच्छन्ति वा । ‘गाङ् गतौ’ (अ० आ० अ०) । 'गम्लृ गतौ' (भ्वा० प० से०) । 'गभीरादयश्च' इति ‘गभीरगम्भीरौ’ (उ० ४.३५) इति वा निपातितौ । (२) (३) त्रीणि गम्भीरस्य ।