अमरकोशः


श्लोकः

जलोच्छ्वासा: परीवाहा: कूपकास्तु विदारकाः । नाव्यं त्रिलिङ्गं नौतार्ये स्त्रियां नौस्तरणिस्तरिः ॥ १० ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 जलोच्छ्वास जलोच्छ्वासः पुंलिङ्गः जलान्युच्छ्वसन्ति परिवहन्त्येभिः । घञ् कृत् अकारान्तः
2 परीवाह परीवाहः पुंलिङ्गः द्वे प्रवृद्धजलस्य निर्गममार्गस्या । घञ् कृत् अकारान्तः
3 कूपक कूपकः पुंलिङ्गः कुत्सिताः कूपाः । कः तद्धितः अकारान्तः
4 विदारक विदारकः पुंलिङ्गः विदार्यन्ते । ण्वुल् बाहुलकाद् अकारान्तः
5 नाव्य नाव्यः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः नावा तार्यम् । यत् अकारान्तः
6 नौ नौः स्त्रीलिङ्गः नुद्यते । डौ उणादिः औकारान्तः
7 तरणि तरणिः स्त्रीलिङ्गः तरन्त्यनया । अनिः उणादिः इकारान्तः
8 तरि तरिः स्त्रीलिङ्गः इः उणादिः इकारान्तः