कूपकः

सुधाव्याख्या

कूपका इति । कुत्सिताः कूपाः । ‘कुत्सिते’ (५.३.७४) इति कः । कूपस्य प्रतिकृतिः इति वा । 'इवे प्रतिकृतौ (५.३.९६) इति कन् । ‘कूपको गुणवृक्षे स्यातैलपात्रे कुकुन्दरे । उदपाने चितायां च (कूपिकाम्भोगतोपले)' ॥