नौः

सुधाव्याख्या

स्त्रियामिति । नुद्यते । 'णुद प्रेरणे’ (तु० उ० अ०) । ग्लानुदिभ्यां डौः’ (उ० २.६४) । यद्वा नयति । ’णीञ् प्रापणे’ (भ्वा० उ० अ०) । अन्येभ्योऽपि-' (वा० ३.२.१०१) इति डः । नम् अवति । क्विप् (३.२.७६) ‘ज्वरत्वर (६.४.२०) इत्यूठौ । वृद्धिः (६.१.८९) तरन्त्यनया । ‘तॄ प्लवनतरणयो’ (भ्वा० प० से०) । 'अति सृघम्यश्यवितृभ्योऽनिः’ (उ० २१०२) । ‘तरणिस्तरणेऽर्केऽशौ कुमार्योषधिनौकयोः । यष्टावब्धौ’ इति हैम: ॥