जलोच्छ्वासः

सुधाव्याख्या

जलोच्छ्वासा इति । जलान्युच्छ्वसन्ति परिवहन्त्येभिः । 'श्वस प्राणने (अ० प० से०) । ‘वह प्रापणे’ (भ्वा० उ० अ०) । ‘हलश्च’ (३.३.१२१) इति घञ् । ‘उपसर्गस्य घञि-' (६.३.१२२) इति वा दीर्घः । यद्वा जलानामुच्छ्वासनम् । परिवहनं च । भावे घञ् (३.३.१८)


प्रक्रिया

धातुः - श्वसँ प्राणने


श्वस् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
उत् + श्वस् + घञ् - हलश्च 3.3.121
उत् + श्वस् + अ - हलन्त्यम् 1.3.3, लशक्वतद्धिते 1.3.8, तस्य लोपः 1.3.9
उत् + श्वास् + अ - अत उपधायाः 7.2.116
उच् + श्वास - स्तोः श्चुना श्चुः 8.4.40
उच्छ्वास - शश्छोऽटि 8.4.63
जल + जस् + उच्छ्वास - उपपदमतिङ् 2.2.19
जल + उच्छ्वास - सुपो धातुप्रातिपदिकयोः 2.4.71
जलोच्छ्वास - आद्गुणः 6.1.87
जलोच्छ्वास + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
जलोच्छ्वास + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
जलोच्छ्वास + रु - ससजुषो रुः 8.2.66
जलोच्छ्वास + र् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
जलोच्छ्वासः - खरवसानयोर्विसर्जनीयः 8.3.15