अमरकोशः


श्लोकः

करहाटः शिफाकन्दः किञ्जल्क: केसरोऽस्त्रियाम् । संवर्तिका नवदलं वीजकोषो वराटकः ॥ ४३ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 करहाट करहाटः पुंलिङ्गः करं हाटयति । अण् कृत् अकारान्तः
2 शिफाकन्द शिफाकन्दः पुंलिङ्गः शिफा मूलतरप्ररोहः तत्सहितः कन्दो मूलम् ॥ अकारान्तः
3 किंजल्क किञ्जल्कः पुंलिङ्गः किंचिज्जलति । कः बाहुलकाद् अकारान्तः
4 केसर केसरः पुंलिङ्गः, नपुंसकलिङ्गः के जले सरति । अच् कृत् अकारान्तः
5 संवर्तिका संवर्तिका स्त्रीलिङ्गः संवर्तते । इन् उणादिः आकारान्तः
6 नवदल नवदलम् नपुंसकलिङ्गः नवं च तद्दलं च ॥ समासः अकारान्तः
7 वीजकोष वीजकोषः पुंलिङ्गः वीजस्य कोष: पात्रमाधारः । तत्पुरुषः समासः अकारान्तः
8 वराटक वराटकः पुंलिङ्गः व्रियते दलैः । तत्पुरुषः समासः अकारान्तः