शिफाकन्दः

सुधाव्याख्या

शिफा मूलतरप्ररोहः तत्सहितः कन्दो मूलम् ॥ शिफा’ इति ‘कन्दम्’ इति च पृथक् नामनी इत्यन्ये ॥ (२)द्वे पद्मकन्दस्य ।


प्रक्रिया

शिफा + सु कन्द सु - शाकपार्थिवादीनां सिद्धये उत्तरपदलोपस्योपसंख्यानम् (2.1.60) । वार्तिकम् ।
शिफाकन्द - सुपो धातुप्रातिपदिकयोः 2.4.71
शिफाकन्द + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
शिफाकन्द + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
शिफाकन्द + रु - ससजुषो रुः 8.2.66
शिफाकन्द + र् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
शिफाकन्दः - खरवसानयोर्विसर्जनीयः 8.3.15