करहाटः

सुधाव्याख्या

करेति । करं हाटयति । ’हट दीप्तौ’ (भ्वा० प० से०) ण्यन्त: । ‘कर्मण्यण्' (३.२.१) । (यत्तु) - कं जलं रहति त्यजति । करहं पद्मम् । ततो हटति बहिर्गच्छति इति मुकुटः । तन्न । 'करहहाटः’ इति प्रसङ्गात् । (अटतीति विग्रहेऽपि) वृद्धिप्रसङ्गाच्च । ‘करहाटः पद्मकन्दे देशद्रुमविशेषयोः’ इति हैमः ॥