केसरः

सुधाव्याख्या

के जले सरति । ‘सृ गतौ’ (भ्वा० प० से०) । पचाद्यच् (३.१.१३४) । 'हलदन्तात्-’ (६.३.१) इत्यलुक् दन्त्यसः (‘सवितृकिसलयकसरसभाः’ इति सभेदात्) । के शीर्यते । ‘शॄ हिंसायाम्' (क्र्या० प० से०) । 'ॠदोरप्' (३.३.५७) तालव्यशः । 'केसरं हिङ्गुनि क्लीबं, किंजल्के न स्त्रियां, पुमान् । सिंहच्छटायां पुंनागे बकुले नागकेसरे' ॥ (२)द्वे पद्मकेसरस्य ।