संवर्तिका

सुधाव्याख्या

समिति । संवर्तते । (वृतु वर्तने’ (भ्वा० आ० से०) । 'हृपिशिरुहिवृतिविदिच्छदिकीर्तिभ्यश्च' (उ० ४.११९) इतीन् । ‘संवर्तिर्नवपत्रिका’ इति वोपालितः । ततः स्वार्थे कन् (५.३.७५)


प्रक्रिया

धातुः - वृतुँ वर्तने


वृत् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
सम् + वृत् + इन् – हृपिषिरुहिवृतिविदिछिदिकीर्तिभ्यश्च (४.११९) उणादिसूत्रम् ।
सम् + वर्त् + इ - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
संवर्ति - पुगन्तलघूपधस्य च 7.3.86
संवर्ति + सु + कन् - संज्ञायां कन् 5.3.75
संवर्ति + कन् - सुपो धातुप्रातिपदिकयोः 2.4.71
संवर्ति + क - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
संवर्तिक + टाप् - अजाद्यतष्टाप्‌ 4.1.4
संवर्तिक + आ - चुटू 1.3.7, हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
संवर्तिका - अकः सवर्णे दीर्घः 6.1.101
संवर्तिका + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
संवर्तिका + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
संवर्तिका - हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल् 6.1.68