अमरकोशः


श्लोकः

आदितेया दिविषदो लेखा अदितिनन्दनाः । आदित्या ऋभवोऽस्वप्ना अमर्त्या अमृतान्धसः ॥ ८ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 आदितेय आदितेयाः पुंलिङ्गः अदित्या अपत्यानि । ढक् तद्धितः अकारान्तः
2 दिविषद् दिविषदः पुंलिङ्गः दिवि सीदन्ति वर्तन्ते । तत्पुरुषः समासः दकारान्तः
3 लेख लेखाः पुंलिङ्गः चित्रादौ लिख्यन्ते । घञ् कृत् अकारान्तः
4 अदितिनन्दन अदितिनन्दनाः पुंलिङ्गः अदितेर्नन्दनाः । तत्पुरुषः समासः अकारान्तः
5 आदित्य आदित्याः पुंलिङ्गः अदितेरपत्यानि । ण्य तद्धितः अकारान्तः
6 ऋभु ऋभवः पुंलिङ्गः ऋशब्दवाच्यः स्वर्गः, अदितिर्वा । तत्र ततो वा भवन्ति । डु कृत् उकारान्तः
7 अस्वप्न अस्वप्नाः पुंलिङ्गः अविद्यमानः स्वप्नो येषाम् । बहुव्रीहिः समासः अकारान्तः
8 अमर्त्य अमर्त्याः पुंलिङ्गः म्रियन्तेऽस्मिन्निति मर्तो भूलोकः । तत्र भवा अप्युपचारान्मर्ताः । तद्भिन्ना: । तत्पुरुषः समासः अकारान्तः
9 अमृतान्धस् अमृतान्धसः पुंलिङ्गः अमृतमन्धोऽन्नं येषां ते । बहुव्रीहिः समासः सकारान्तः