ऋभवः

सुधाव्याख्या

ऋशब्दवाच्यः स्वर्गः, अदितिर्वा । स्वरादि (१.१.३७) पाठादव्ययत्वम् । तत्र ततो वा भवन्ति । ‘मितद्र्वादित्वात्’ (वा० ३.२.१८०) डुः । क्विपि (३.२.७६) । ‘ऋभुव:' अपि इत्यन्ये ॥


प्रक्रिया

धातुः - भू सत्तायाम्


ऋ+भू+डु - डुप्रकरणे मितद्र्वादिभ्य उपसंख्यानम् (3.2.180) । वार्तिकम् ।
ऋ+भू+उ - चुटू 1.3.7, तस्य लोपः 1.3.9
ऋ + भ् + उ - डित्वसामर्थ्यात् अभस्यपि टेर्लोपः ।
ऋभु+जस् - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
ऋभु+अस् - चुटू 1.3.7, तस्य लोपः 1.3.9
ऋभो+अस् - सार्वधातुकार्धधातुकयोः 7.3.84
ऋभव्+अस् - एचोऽयवायावः 6.1.78
ऋभव्+अरु - ससजुषो रुः 8.2.66
ऋभव्+अर् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
ऋभवः - खरवसानयोर्विसर्जनीयः 8.3.15